Thursday, January 28, 2016

Praise of Lord Shri Rama by Jatayu जटायु कृत श्री राम स्तुति स्तोत्र

जटायुकृत श्री राम स्तुती स्तोत्र



श्री गणेशाय नमः
जटायुरूवाच 
अगणित गुण प्रमेमाद्यं सकल जगत्स्थिति संयमादि हेतुम् ।
उपरम परमं परात्मभूतं सततमहं प्रणतो अस्मि रामचन्द्रम् । 1 ।

निरवधि सुख मिन्दिरा कटाक्षं क्षपित सुरेन्द्र चतुर्मुखादि दुःख्खम् ।
नरवरमनिशं नतो अस्मि रामं वरदमहं वरचापबाणहस्तम् । 2 ।

त्रिभुवन कमनीय रूपमीड्यमं रवि शत भासुरमीहित प्रधानम् ।
शरणदमनीशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये । 3 ।

भव विपिन दवाग्नि नामधेयं भवमुख दैवत दैवतं दयालुम् ।
दनुजपति सहस्र कोटि नाशं रवितनया सदृश्यं हरिं प्रपद्ये । 4 । 


अविरत भवभावनाति दूरं भवविमुखै र्मुनिभिः सदैव दृश्यम् ।
भवजलधि सुतारणांघ्रि पोतं शरणमहं रघुनन्दनं प्रपद्ये । 5 ।

गिरिशगिरिसुता मनोनिवासं गिरिवर धारिण मीहिताभि रामम्।
सुरवर दनुजेन्द्र सेवितांघ्रिं सुरवरदं रघुनायकं प्रपद्ये । 6 । 

परधन परदार वर्जितानां परगुणभूतिषु तुष्टमानसानाम् ।
परहित निरतात्मनां सुसेव्यं रघुवर अम्बुज लोचनं प्रपद्ये । 7 ।

स्मित रूचिर विकासिताननाब्ज मतिसुलभं सुर राज नीलनीलम् ।
सितजलरूह चारूनेत्रशोभं रघुपतीमीश गुरोर्गुरूं प्रपद्ये । 8 ।

हरि कमलज शम्भु रूप भेदात्वमिह विभासि गुण त्रयानु वृत्तः ।
रविरिव जल पुरि तोदपात्रे ष्वमरपति स्तुतिपात्रमीशमीडे । 9 ।

रतिपति शतकोटि सुन्दरांगं शतपथगोचरभावनाविदूरम्  ।
यतिपति ह्रदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये । 10 । 

इत्येवं स्तुवतस्तस्य प्रसन्नो अभूद्रघुत्तमः । 
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् । 11 ।

श्रृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् । 
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत । 12 ।

इति राघव भाषितं तदा श्रुतवान् हर्ष समाकुलो द्विजः ।
रघुनन्दन साम्यमा स्थितः प्रययौ ब्रह्म सुपूजितं पदम् । 13 ।

इति श्री अध्यात्म रामायणे उमामहेश्वर संवादे अरण्य काण्डे जटायुकृत श्रीराम स्तुति स्तोत्रः ।

। भगवान श्री रामचन्द्रार्पणमस्तु ।

Please see the following links - https://mohankharkar.com/about/





























No comments:

Post a Comment